श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
तत्र ‘भूतग्राममिमं विसृजामि’ (भ. गी. ९ । ८) ‘उदासीनवदासीनम्’ (भ. गी. ९ । ९) इति च विरुद्धम् उच्यते, इति तत्परिहारार्थम् आह —

ईश्वरे स्रष्टृत्वं ओदासीन्यं च विरुद्धम् , इति शङ्कते -

तत्रेति ।

पूर्वग्रन्थः सप्तम्यर्थः ।

विरोधपरिहारार्थम् उत्तरश्लोकम् अवतारयति -

तदिति ।