विपर्यस्तबुद्धित्वं भगवदवज्ञायां कारणम् , इत्याह -
मूढा इति ।
भगवतो मनुष्यदेहसम्बन्धात् तस्मिन् विपर्यासः सम्भवति, इत्याह -
मानुषीमिति ।
अस्मदादिवत् देहतादात्म्याभिमानं भगवतो व्यावर्तयति -
मनुष्येति ।
भगवन्तम् अवजानताम् अविवेकमूलाज्ञानं हेतुमाह -
परमिति ।
ईश्वरावज्ञानात् किं भवति ? इत्यपेक्षायां तदवज्ञानप्रतिबद्धबुद्धयः शोच्या भवन्ति, इत्याह -
ततश्चेति ।
भगवदज्ञानादेव हेतोः अवजानन्तः, ते - जन्तवः, वराकाः - शोच्याः, सर्वपुरुषार्थबाह्याः स्युः इति सम्बन्धः ।
तत्र हेतुं सूचयति -
तस्येति ।
प्रकृतस्य भगवतः अवज्ञानम् अनादरणं निन्दनं वा, तस्य भावनं पौनःपुन्यम् , तेन आहताः तज्जनितदुरितप्रभावात् प्रतिबद्धबुद्धयः इत्यर्थः
॥ ११ ॥