श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
महात्मानस्तु अक्षुद्रचित्ताः माम् ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शमदमदयाश्रद्धादिलक्षणाम् आश्रिताः सन्तः भजन्ति सेवंते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिं भूतानां वियदादीनां प्राणिनां आदिं कारणम् अव्ययम् ॥ १३ ॥

महान् - प्रकृष्टः, यज्ञादिभिः शोधितः, आत्मा - सत्वं, येषाम् , इति व्युत्पत्तिमाश्रित्य, आह -

अक्षुद्रेति ।

तुशब्दः अवधारणे ।

प्रकृतिं विशिनष्टि -

शमेति ।

अनन्यस्मिन् - प्रत्यग्भूते मयि परस्मिन्नेव, मनः येषाम् इति व्युत्पत्या व्याकरोति -

अनन्यचित्ता इति ।

अज्ञाते सेवानुपपत्तेः शास्त्रोपपत्तिभ्याम् आदौ ज्ञात्वा ततः सेवन्ते, इत्याह -

ज्ञात्वेति ।

अव्ययम् - अविनाशिनम्

॥ १३ ॥