तत्प्रकारम् आह -
सततमिति ।
“ सर्वदा “ इति श्रवणावस्था गृह्यते । कीर्तनं - वेदान्तश्रवणं प्रणवजपश्च, व्रतं - ब्रह्मचर्यादि, नमस्यन्तः - माम्प्रति चेतसा प्रह्वीभवन्तः, भक्त्या - परेण प्रेम्णा, नित्ययुक्ताः सन्तः - सदा सम्युक्ताः
॥ १४ ॥