श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
ते केन केन प्रकारेण उपासते इत्युच्यते —

उपासनप्रकारभेदप्रतिपित्सया पृच्छति -

ते केनेति ।

तत्प्रकारभेदोदीरणार्थं श्लोकम् अवतारयति -

उच्यत इति ।

इज्यते पूज्यते परमेश्वरः अनेन, इति, प्रकृते ज्ञाने यज्ञशब्दः । ‘ईश्वरञ्च’ इति चकारः अवधारणे ।