श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
अहं क्रतुः श्रौतकर्मभेदः अहमेव । अहं यज्ञः स्मार्तः । किञ्च स्वधा अन्नम् अहम् , पितृभ्यो यत् दीयते । अहम् औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं व्रीहियवादिसाधारणम् । अथवा स्वधा इति सर्वप्राणिसाधारणम् अन्नम् , औषधम् इति व्याध्युपशमनार्थं भेषजम् । मन्त्रः अहम् , येन पितृभ्यो देवताभ्यश्च हविः दीयते । अहमेव आज्यं हविश्च । अहम् अग्निः, यस्मिन् हूयते हविः सः अग्निः अहम् । अहं हुतं हवनकर्म च ॥ १६ ॥

क्रतुयज्ञशब्दयोः अपौनरुक्त्यं दर्शयन् व्याचष्टे -

श्रौत इति ।

क्रियाकारकफलजातं भगवदतिरिक्तं नास्ति, इति समुदायार्थः

॥ १६ ॥