श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
तपामि अहम् आदित्यो भूत्वा कैश्चित् रश्मिभिः उल्बणैःअहं वर्षं कैश्चित् रश्मिभिः उत्सृजामिउत्सृज्य पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृजामि प्रावृषिअमृतं चैव देवानाम् , मृत्युश्च मर्त्यानाम्सत् यस्य यत् सम्बन्धितया विद्यमानं तत् , तद्विपरीतम् असच्च एव अहम् अर्जुन पुनः अत्यन्तमेव असत् भगवान् , स्वयं कार्यकारणे वा सदसती ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः मां पूजयन्तः उपासते ज्ञानविदः, ते यथाविज्ञानं मामेव प्राप्नुवन्ति ॥ १९ ॥

“आदित्यात् जायते वृष्टिः“ (मनुः - ३ - ७६ ॥ ) इति स्मृतिम् अवष्टभ्य व्याचष्टे -

कैश्चिदिति ।

वर्षोत्सर्गनिग्रहौ एकस्य एकस्मिन् काले विरुद्धौ इत्याशङ्क्य आह -

अष्टभिरिति ।

ऋतुभेदेन वर्षस्य निग्रहोत्सर्गौ एककर्तृकौ अविरुद्धौ इत्यर्थः ।

यस्य कारणस्य सम्बन्धित्वेन यत्कार्यम् अभिव्यज्यते, तदिह सत् इत्युच्यते, कारणसम्बन्धेन अनभिव्यक्तं कारणमेव अनभिव्यक्तनामरूपं असत् इति व्यवह्रियते । तदेतत् आह -

सदिति ।

शून्यवादं व्युदस्यति -

न पुनरिति ।

भगवतः अत्यन्तासत्वे कार्यकारणकल्पना निरधिष्ठाना न तिष्ठति इत्यर्थः ।

तर्हि यथाश्रुतं कार्यस्य सत्वं कारणस्य च असत्वम् आस्थेयम् इत्याशङ्क्य, वाशब्देन निषेधति -

कार्येति ।

न हि कार्यस्य आत्यन्तिकं सत्वम् , वाचारम्भणश्रुतेः (छा.उ. ६ - १ - ४ - ६, ६ - ४ - ४ - १ - ४) नापि इतरस्य आत्यन्तिकम् असत्वम् “कुतस्तु खलु “ (छा.उ.६ - २ - २) इत्यादि श्रृतेः इत्यर्थः ।

उक्तै ज्ञानयज्ञैः भगवदभिनिविष्टबुद्धीनां किं फलम् इत्याशङ्क्य, सद्यो वा क्रमेण वा मुक्तिः इत्याह -

य इति

॥ १९ ॥

भगवद्भक्तानाम् अपि निष्कामानाम् एव मुक्तिः इति दर्शयितुं सकामानां पुंसां संसारम् अवतारयति -

ये पुनरिति ।

तिस्त्रः विद्याः अधोयते, विदन्ति इति वा त्रैविद्याः - वेदविदः । तदाह -

ऋगिति ।

वस्वादि इति आदिशब्देन सवनद्वयेशानादित्यरुद्राश्च गृह्यन्ते । शुद्धकिल्बिषाः - निरस्तपापाः, इति यावत्

॥ २० ॥