तर्हि स्वर्गप्राप्तिरपि भगवत्प्राप्तितुल्या इत्याशङ्क्य आह -
ते तमिति ।
पुण्येस्वर्गप्राप्तिहेतौ, इति यावत् । प्रसिद्ध्यर्थो हिशब्दः । त्रयाणाम् - हौत्रादीनां वेदत्रयविहितानां धर्माणां समाहारः त्रिधर्मम् , तदेव त्रयीधर्म्यम् तदनुप्रपन्नाः । तदनुगताः, इति यावत् ।
गमनागमनद्वारा कामितफलाप्तिश्चेत् इष्टमेव चेष्टितम् , इत्याशङ्क्य, आह -
गतेति
॥ २१ ॥