श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति
एवं त्रयीधर्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते ॥ २१ ॥
ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयीधर्मं केवलं वैदिकं कर्म अनुप्रपन्नाः गतागतं गतं च आगतं च गतागतं गमनागमनं कामकामाः कामान् कामयन्ते इति कामकामाः लभन्ते गतागतमेव, न तु स्वातन्त्र्यं क्वचित् लभन्ते इत्यर्थः ॥ २१ ॥

तर्हि स्वर्गप्राप्तिरपि भगवत्प्राप्तितुल्या इत्याशङ्क्य आह -

ते तमिति ।

पुण्येस्वर्गप्राप्तिहेतौ, इति यावत् । प्रसिद्ध्यर्थो हिशब्दः । त्रयाणाम् - हौत्रादीनां वेदत्रयविहितानां धर्माणां समाहारः त्रिधर्मम् , तदेव त्रयीधर्म्यम् तदनुप्रपन्नाः । तदनुगताः, इति यावत् ।

गमनागमनद्वारा कामितफलाप्तिश्चेत् इष्टमेव चेष्टितम् , इत्याशङ्क्य, आह -

गतेति

॥ २१ ॥