श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
येऽप्यन्यदेवताभक्ता
यजन्ते श्रद्धयान्विताः
तेऽपि मामेव कौन्तेय
यजन्त्यविधिपूर्वकम् ॥ २३ ॥
ननु अन्या अपि देवताः त्वमेव चेत् , तद्भक्ताश्च त्वामेव यजन्ते । सत्यमेवम् —

तत्तत् देवतात्मना परस्यैव आत्मनः स्थित्यभ्युपगमात् देवतान्तरपराणामपि भगवच्छरणत्वाविशेषात् तदेकनिष्ठत्वम् अकिञ्चित्करमिति मन्वानः शङ्कते -

नन्विति ।

उक्तम् अङ्गीकृत्य परिहरति -

सत्यमित्यादिना ।