प्रभुरेव च इत्युक्तं विवृणोति -
मत्स्वामिको हीति ।
तत्र पूर्वाध्यायगतवाक्यं प्रमाणयति -
अधियज्ञोऽहमिति ।
तथापि देवतान्तरयाजिनां यजनम् अविधिपूर्वकम् इति कुतस्सिद्धम् ? तत्र आह -
तथेति ।
ममैव यज्ञेषु भोक्तृत्वे प्रभुत्वे च सति, इति यावत् ।
तयोः भोक्तृप्रभ्वोः भावः तत्वम् । तेन - भोक्तृत्वेन प्रभुत्वेन च, माम् यथावत् यतो न जानन्ति, अतो भोक्तृत्वादिना मम अज्ञानात् मय्यनर्पितकर्माणः च्यवन्ते कर्मफलात् इत्याह -
अतश्चेति
॥ २४ ॥