श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहं हि सर्वयज्ञानां
भोक्ता प्रभुरेव
तु मामभिजानन्ति
तत्त्वेनातश्च्यवन्ति ते ॥ २४ ॥
कस्मात् ते अविधिपूर्वकं यजन्ते इत्युच्यते ; यस्मात् —

ननु वस्वादित्येन्द्रादिज्ञानपूर्वकमेव तद्भक्ताः - तद्याजिनः भवन्तीति, कथम् अविधिपूर्वकं तेषां यजनम् ? इति शङ्कते -

कस्मादिति ।

देवतान्तरयाजिनां यजनम् अविधिपूर्वकम् इत्यत्र हेत्वर्थत्वेन श्लोकम् उत्थापयति -

उच्यत इति ।

सर्वेषां द्विविधानां  यज्ञानां वस्वादिदेवतात्वेन अहमेव भोक्ता, स्वेन अन्तर्यामिरूपेण प्रभुश्च, अहमेव इति प्रसिद्धमेतत् इति हिशब्दः ।