देवतान्तराराधनस्य अन्तवत् फलम् उक्त्वा, भगवदाराधनस्य अनन्तफलत्वम् आह -
यान्तीति ।
भगवदाराधनस्य अनन्तफलत्वे देवतान्तराराधनं त्यक्त्वा भगवदाराधनमेव युक्तम् , आयाससाम्यात् , फलातिरेकाच्च, इत्याशङ्क्य, आह -
समानेऽपीति ।
अज्ञानाधीनत्वेन देवतान्तराराधनवतां फलतो न्यूनतां दर्शयति -
तेनेति
॥ २५ ॥