श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
यान्ति गच्छन्ति देवव्रताः देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रताः देवान् यान्ति । पितॄन् अग्निष्वात्तादीन् यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः । भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानां पूजकाः । यान्ति मद्याजिनः मद्यजनशीलाः वैष्णवाः मामेव यान्ति । समाने अपि आयासे मामेव न भजन्ते अज्ञानात् , तेन ते अल्पफलभाजः भवन्ति इत्यर्थः ॥ २५ ॥

देवतान्तराराधनस्य अन्तवत् फलम्  उक्त्वा, भगवदाराधनस्य अनन्तफलत्वम् आह -

यान्तीति ।

भगवदाराधनस्य अनन्तफलत्वे देवतान्तराराधनं त्यक्त्वा भगवदाराधनमेव युक्तम् , आयाससाम्यात् , फलातिरेकाच्च, इत्याशङ्क्य, आह -

समानेऽपीति ।

अज्ञानाधीनत्वेन देवतान्तराराधनवतां फलतो न्यूनतां दर्शयति -

तेनेति

॥ २५ ॥