श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषामपि यागफलं अवश्यंभाविकथम् ? —
येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते, तेषामपि यागफलं अवश्यंभाविकथम् ? —

यदि अन्यदेवताभक्ताः भगवत्तत्वाज्ञानात् कर्मफलात् च्यवन्ते, तर्हि तेषां देवतान्तर यजनम् अकिञ्चित्करम् इत्याशङ्क्य, आह -

येऽपीति ।

देवतान्तरयाजिनाम् अनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपफलप्राप्ति ध्रौव्यात् न तत् अकिञ्चित्करम् , इत्यर्थः ।

देवतान्तरयाजिनाम् आवश्यकं तत्फलम् आशङ्कापूर्वकम् उदाहरति -

कथमित्यादिना ।

नियमः - बल्युपहारप्रदक्षिणप्रह्वीभावादिः, इत्यर्थः ।