यदि अन्यदेवताभक्ताः भगवत्तत्वाज्ञानात् कर्मफलात् च्यवन्ते, तर्हि तेषां देवतान्तर यजनम् अकिञ्चित्करम् इत्याशङ्क्य, आह -
येऽपीति ।
देवतान्तरयाजिनाम् अनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपफलप्राप्ति ध्रौव्यात् न तत् अकिञ्चित्करम् , इत्यर्थः ।
देवतान्तरयाजिनाम् आवश्यकं तत्फलम् आशङ्कापूर्वकम् उदाहरति -
कथमित्यादिना ।
नियमः - बल्युपहारप्रदक्षिणप्रह्वीभावादिः, इत्यर्थः ।