श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥
पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रयच्छति, तत् अहं पत्रादि भक्त्या उपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः ॥ २६ ॥

यद्धि पुष्पादिकं भक्तिपूर्वकं मदर्थम् अर्पितम् , तेन अयं शुद्धचेताः तपस्वी माम् आराधयति  इति अहम् अवधारयामि, इत्याह-

पत्रमित्यादिना ।

॥ २६ ॥