श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम् , सुखाराधनश्च अहम्कथम् ? —
केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम् , सुखाराधनश्च अहम्कथम् ? —

अनन्तफलत्वात् भगवदाराधनमेव कर्तव्यम् , इत्युक्तम् । सुकरत्वाच्च तथा, इत्याह -

न केवलमिति ।

भगवदाराधनस्य सुकरत्वमेव प्रश्नपूर्वकं प्रपञ्चयति -

कथमित्यादिना ।