श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्करोषि यदश्नासि
यज्जुहोषि ददासि यत्
यत्तपस्यसि कौन्तेय
तत्कुरुष्व मदर्पणम् ॥ २७ ॥
यत् करोषि स्वतः प्राप्तम् , यत् अश्नासि, यच्च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यत् ददासि प्रयच्छसि ब्राह्मणादिभ्यः हिरण्यान्नाज्यादि, यत् तपस्यसि तपः चरसि कौन्तेय, तत् कुरुष्व मदर्पणं मत्समर्पणम् ॥ २७ ॥

हवनस्य स्वतस्त्वं वारयति -

श्रौतमिति ।

मत्समर्पणम् , तत्सर्वं मह्यं समर्पय, इत्यर्थः

॥ २७ ॥