श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्करोषि यदश्नासि
यज्जुहोषि ददासि यत्
यत्तपस्यसि कौन्तेय
तत्कुरुष्व मदर्पणम् ॥ २७ ॥
यतः एवम् , अतः —

तदाराधनस्य सुकरत्वे तदेव आवश्यकम् इत्याह -

यत इति ।

स्वतः - शास्त्रादृते प्राप्तम् , गमनादि इति यावत् । यदश्नासि - यं  कञ्चित् भागं भुङ्क्षे ।