श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शुभाशुभफलैरेवं
मोक्ष्यसे कर्मबन्धनैः
संन्यासयोगयुक्तात्मा
विमुक्तो मामुपैष्यसि ॥ २८ ॥
शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन् मोक्ष्यसे । सोऽयं संन्यासयोगो नाम, संन्यासश्च असौ मत्समर्पणतया कर्मत्वात् योगश्च असौ इति, तेन संन्यासयोगेन युक्तः आत्मा अन्तःकरणं यस्य तव सः त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्नेव पतिते चास्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि ॥ २८ ॥

भगवदर्पणबुद्द्या सर्वकर्म कुर्वतो जीवन्मुक्तस्य प्रारब्धकर्मावसाने विदेहकैवल्यमावश्यकम् , इत्याह -

शुभेत्यादिना ।

भगवदर्पणकरणात् मुक्तिः संन्यासयोगाच्च, इति साधनद्वयशङ्कां शातयति

सोऽयमिति

॥ २८ ॥