श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
समोऽहं सर्वभूतेषु
मे द्वेष्योऽस्ति प्रियः
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्यहम् ॥ २९ ॥
समः तुल्यः अहं सर्वभूतेषु मे द्वेष्यः अस्ति प्रियःअग्निवत् अहम्दूरस्थानां यथा अग्निः शीतं अपनयति, समीपम् उपसर्पतां अपनयति ; तथा अहं भक्तान् अनुगृह्णामि, इतरान्ये भजन्ति तु माम् ईश्वरं भक्त्या मयि तेस्वभावत एव, मम रागनिमित्तम्वर्तन्तेतेषु अपि अहं स्वभावत एव वर्ते, इतरेषु एतावता तेषु द्वेषो मम ॥ २९ ॥

तर्हि, भगवद्भजनम् अकिञ्चित्करम् , इत्याशङ्क्य, आह -

अग्निवदिति ।

तत् प्रपञ्चयति -

यथेति ।

भक्तान् अभक्तांश्च अनुगृह्ण्तः । अननुगृह्ण्तश्च भगवतो न कथं रागादिमत्वम् ? इत्याशङ्क्य, आह -

ये भजन्तीति ।

ये वर्णाश्रिमादिधर्मैः मां भजन्ति ते तेनैव भजनेन अचिन्त्यमाहात्म्येन परिशुद्धबुद्धयः मयि - मत्सपीपे, वर्तन्ते - मदभिव्यक्तियोग्यचित्ता भवन्ति । तुशब्दः अस्य विशेषस्य द्योतनार्थः । तेषु च समीपे तेषाम् अहमपि स्वभावतो वर्तमानः तदनुग्रहपरो भवामि । यथा व्यापकम् अपि सावित्रं तेजः स्वच्छे दर्पणादौ प्रतिफलति, तथा परमेश्वरः अवर्जनीयतया भक्तिनिरस्तसमस्तकलुषसत्त्वेषु पुरुषेषु सन्निधत्ते, दैवीं प्रकृतिम् आश्रिताः मां भजन्ति, इत्युक्तत्वात् - इत्यर्थः

॥ २९ ॥