मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
नवमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अपि
चेत्सुदुराचारो
भजते
मामनन्यभाक्
।
साधुरेव
स
मन्तव्यः
सम्यग्व्यवसितो
हि
सः
॥ ३० ॥
अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारोऽपि भजते माम् अनन्यभाक् अनन्यभक्तिः सन् , साधुरेव सम्यग्वृत्त एव सः मन्तव्यः ज्ञातव्यः ; सम्यक् यथावत् व्यवसितो हि सः, यस्मात् साधुनिश्चयः सः ॥ ३० ॥
सम्यगिति
;
सभ्यग्वृत्त एव भगवद्भक्तो ज्ञातव्यः, इत्यत्र हेतुम् आह -
सम्यगिति
॥ ३० ॥