भगवन्तं भजमानस्य कथं दुराचारता परित्यक्ता भवति, इत्याशङ्क्य, आह -
क्षिप्रमिति ।
सति दुराचारे कथं धर्मचित्तत्वम् ? तदाह -
शश्वदिति ।
उपशमः - दुराचारात् उपशमः ।
किमिति त्वद्भक्तस्य दुराचारात् उपरतिः उच्यते ? दुराचारोपहतचेतस्तया किमित्यसौ न नङ्क्ष्यति ? इत्याशङ्क्य, आह -
श्रृणु इति
॥ ३१ ॥