क्षिप्रं भवति धर्मात्मा
शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि
न मे भक्तः प्रणश्यति ॥ ३१ ॥
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव । शश्वत् नित्यं शान्तिं च उपशमं निगच्छति प्राप्नोति । शृणु परमार्थम् , कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति इति ॥ ३१ ॥