श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥
किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथाराजानश्च ते ऋषयश्च राजर्षयःयतः एवम् , अतः अनित्यं क्षणभङ्गुरम् असुखं सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥ ३३ ॥

यदि पापयोनिः पापाचारश्च त्वद्भक्त्या परां गतिं गच्छति, तर्हि किम् उत्तमजातिनिमित्तेन संन्यासादिना, किं वा सद् - वृत्तेन, इत्याशङ्क्य, आह -

किं पुनरिति ।

उत्तमजातिमतां ब्रह्मणादीनां अतिशयेन परा गतिः यतो लभ्यते, अतः भगवद्भजनं तैः एकान्तेन विधातव्यम् , इत्याह -

यत इति ।

मनुष्यदेहातिरिक्तेषु पश्वादिदेहेषु भगवद्भजनयोग्यता भावात् , प्राप्ते मनुष्यत्वे तद्भजने प्रयतितव्यम् , इत्याह -

दुर्लभमिति

॥ ३३ ॥