ईश्वरभजने इतिकर्तव्यतां दर्शयति -
मन्मना इति ।
एवं भगवन्तं भजमानस्य मम किं स्यात् ? इत्याशङ्क्य, आह -
मामेवेति ।
समाधाय भगवत्येव, इति शेषः ।
एवमात्मानमित्येतद् विवृणोति -
अहं हीति ।
अहमेव परम् अयनं तव - इति मत्परायणः, तथाभूतः सन् , मामेव आत्मानम् एष्यसि इति सम्बन्धः । तदेवं मध्यमानां ध्येयं निरूप्य, नवमेन अधमानां आराध्याभिधानमुखेन निजेन पारमार्थिकेन रूपेण प्रत्यक्त्वेन ज्ञानं परमेश्वरस्य परम् आराधनम् , इत्यभिदधता, सोपाधिकं तत्पदवाच्यम् , निरुपाधिकं च तत्पदलक्ष्यम् व्याख्यातम्
॥ ३४ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने नवमोऽध्यायः ॥ ९ ॥