प्रकृष्टत्वं वचसः स्पष्टयति -
निरतिशयेति ।
तदेव वचः विशिनष्टि -
यत्परममिति ।
सकृदुक्तेः अर्थसिद्धेः सकृदुक्तिः अनर्थिका, इत्याशङ्क्य, आह -
प्रीयमाणायेति ।
ततो वक्ष्यामि तुभ्यम् , इति पूर्वेण सम्बन्धः । हितम् - दुर्विज्ञेयं तत्त्वज्ञानम्
॥ १ ॥