श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
भूय एव महाबाहो शृणु मे परमं वचः
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
भूयः एव भूयः पुनः हे महाबाहो शृणु मे मदीयं परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचः वाक्यं यत् परमं ते तुभ्यं प्रीयमाणायमद्वचनात् प्रीयसे त्वम् अतीव अमृतमिव पिबन् , ततःवक्ष्यामि हितकाम्यया हितेच्छया ॥ १ ॥

प्रकृष्टत्वं वचसः स्पष्टयति -

निरतिशयेति ।

तदेव वचः विशिनष्टि -

यत्परममिति ।

सकृदुक्तेः अर्थसिद्धेः सकृदुक्तिः अनर्थिका, इत्याशङ्क्य, आह -

प्रीयमाणायेति ।

ततो वक्ष्यामि तुभ्यम् , इति पूर्वेण सम्बन्धः । हितम् - दुर्विज्ञेयं तत्त्वज्ञानम्

॥ १ ॥