अध्यायद्वये सिद्धम् अर्थ सङ्क्षेपतोऽनुभाषते -
सप्तमेति ।
तत्त्वं सोपाधिकं निरुपाधिकञ्च । विभूतयः - सविशेषनिर्विशेषरूपप्रतिपत्त्युपयोगिन्यः ।
उत्तराध्यायस्य अध्यायद्वयेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति -
अथेति ।
वक्तव्याः सविशेषध्याने निर्विशेषप्रतिपत्तौ च शेषत्वेन, इति शेषः ।
ननु सविशेषं निर्विशेषं च भगवतो रूपं प्रागेव तत्र तत्र उक्तम् । तत्किमिति पुनः उच्यते, तत्र आह -
उक्तमपीति ।
तद्यदि तत्र तत्र तत्त्वम् उक्तम् , तयापि पुनर्वक्तव्यं दुर्ज्ञेयत्वात् , इति यतः मन्यते, अतः इति योजना ।