इतश्चाहं मुमुक्षुभिः आराध्यत्वसिद्धये बन्धमोक्षसाधनं पुरस्कृत्य अशेषं जगत्प्रकृत्यधिष्ठातृत्वलक्षणं सोपाधिकं भगवत्प्रभावम् अभिधत्ते-
बुद्धिरिति ।
सूक्ष्मादि इत्यादिशब्देन सूक्ष्मतरः सूक्ष्मतमश्च अर्थो गृह्यते ।
उक्तं सामर्थ्यं बुद्धिः, इत्यस्मिन् अर्थे प्रसिद्धिं प्रमाणयति -
तद्वन्तमिति ।
आत्मादीति । तदवबोधवन्तं हि ज्ञानिनं वदन्ति । अन्तः करणस्य उपशमः विषयेभ्यो व्यावृत्तिः इति शेषः
॥ ४ ॥