श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवोऽभावो भयं चाभयमेव ॥ ४ ॥
बुद्धिः अन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम् , तद्वन्तं बुद्धिमानिति हि वदन्तिज्ञानम् आत्मादिपदार्थानामवबोधःअसंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिःक्षमा आक्रुष्टस्य ताडितस्य वा अविकृतचित्ततासत्यं यथादृष्टस्य यथाश्रुतस्य आत्मानुभवस्य परबुद्धिसङ्क्रान्तये तथैव उच्चार्यमाणा वाक् सत्यम् उच्यतेदमः बाह्येन्द्रियोपशमःशमः अन्तःकरणस्य उपशमःसुखम् आह्लादःदुःखं सन्तापःभवः उद्भवःअभावः तद्विपर्ययःभयं त्रासः, अभयमेव तद्विपरीतम् ॥ ४ ॥

इतश्चाहं मुमुक्षुभिः आराध्यत्वसिद्धये बन्धमोक्षसाधनं पुरस्कृत्य अशेषं जगत्प्रकृत्यधिष्ठातृत्वलक्षणं सोपाधिकं भगवत्प्रभावम् अभिधत्ते-

बुद्धिरिति ।

सूक्ष्मादि इत्यादिशब्देन सूक्ष्मतरः सूक्ष्मतमश्च अर्थो गृह्यते ।

उक्तं सामर्थ्यं बुद्धिः, इत्यस्मिन् अर्थे प्रसिद्धिं प्रमाणयति -

तद्वन्तमिति ।

आत्मादीति । तदवबोधवन्तं हि ज्ञानिनं वदन्ति । अन्तः करणस्य उपशमः विषयेभ्यो व्यावृत्तिः इति शेषः

॥ ४ ॥