यथाशक्तीति । पात्रे श्रद्धया स्वशक्तिं अनतिक्रम्य अर्थानां देशकालानुगुण्येन प्रतिपादनम् इत्यर्थः । उक्तानां बुद्ध्यादीनां साश्रयाणां ईश्वरात् उत्पत्तिं प्रतिजानीते -
भवन्तीति ।
नानाविधत्वे हेतुमाह -
स्वकर्मेति ।
कथञ्चिदपि तेषाम् आत्मव्यतिरेकेण अभावात् मत्त एव इ्त्युक्तम्
॥ ५ ॥