श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥
अहिंसा अपीडा प्राणिनाम् । समता समचित्तता । तुष्टिः सन्तोषः पर्याप्तबुद्धिर्लाभेषु । तपः इन्द्रियसंयमपूर्वकं शरीरपीडनम् । दानं यथाशक्ति संविभागः । यशः धर्मनिमित्ता कीर्तिः । अयशस्तु अधर्मनिमित्ता अकीर्तिः । भवन्ति भावाः यथोक्ताः बुद्ध्यादयः भूतानां प्राणिनां मत्तः एव ईश्वरात् पृथग्विधाः नानाविधाः स्वकर्मानुरूपेण ॥ ५ ॥

यथाशक्तीति । पात्रे श्रद्धया स्वशक्तिं अनतिक्रम्य अर्थानां देशकालानुगुण्येन प्रतिपादनम् इत्यर्थः । उक्तानां बुद्ध्यादीनां साश्रयाणां ईश्वरात् उत्पत्तिं प्रतिजानीते -

भवन्तीति ।

नानाविधत्वे हेतुमाह -

स्वकर्मेति ।

कथञ्चिदपि तेषाम् आत्मव्यतिरेकेण अभावात् मत्त एव इ्त्युक्तम्

॥ ५ ॥