श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥
किञ्च —

न केवलं भगवतः सर्व प्रकृतित्वमेव, किन्तु सर्वज्ञत्व - सर्वेश्वरत्वरूपम् अधिष्ठातृत्वम् अपि, इत्याह -

किञ्चेति ।

आद्या भृग्वादयो वसिष्ठान्ताः सर्वज्ञाः विद्यासम्प्रदायप्रवर्तकाः ।