श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतां विभूतिं योगं मम यो वेत्ति तत्त्वतः
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥
एतां यथोक्तां विभूतिं विस्तारं योगं युक्तिं आत्मनः घटनम् , अथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योगः उच्यते, मम मदीयं योगं यः वेत्ति तत्त्वतः तत्त्वेन यथावदित्येतत् , सः अविकम्पेन अप्रचलितेन योगेन सम्यग्दर्शनस्थैर्यलक्षणेन युज्यते सम्बध्यते अत्र संशयः अस्मिन् अर्थे संशयः अस्ति ॥ ७ ॥

सोपाधिकं प्रभावं भगवतो दर्शयित्वा तज्ज्ञानफलम् आह -

एतामिति ।

बुद्ध्याद्युपादानत्वेन विविधा भूतिः - भवनम् वैभवम् सर्वात्मकत्वम् , तदाह -

विस्तारमिति ।

ईश्वरस्य तत्तदर्थसम्पादनसामर्थ्यं योगः, तदाह -

आत्मन इति ।

योगः - तत्फलम् ऐश्वर्यं सर्वज्ञत्वं सर्वेश्वरत्वं च मदीयं शक्तिज्ञानलेशम् आश्रित्य मन्वादयो भृग्वादयश्च ईशते जानते च तदाह -

अथवेति ।

यथा तौ विभूतियोगौ तथा वेदनस्य निरङ्कुशत्वं दर्शयति -

यथावदिति ।

सोपाधिकं ज्ञानं निरूपाधिकज्ञाने द्वारम् , इत्याह -

सोऽविकम्पेनेति ।

उक्ते अर्थे प्रतिबन्धाभावम् आह -

नास्मिन् इति

॥ ७ ॥