ईश्वरात् प्रतीचः प्रगुक्तात् अन्यत्र चित्तप्रचारराहित्यं भगवद्भजनोपायम् आह -
मयीति ।
चक्षुरादीनां भगवति अप्राप्तिः, तदगोचरत्वात् तस्य, इत्याशङ्क्य, आह -
मय्युपसंहृतेति ।
भगवदतिरेकेण जीवनेऽपि न आदरः । तदपि मय्येव अर्पितं भक्तानाम् , इत्याह -
अथवेति ।
आचार्येभ्यः श्रुत्वा, वादकथया परस्परं भगवन्तं सब्रह्मचारिणो बोधयन्ति । तदपि भगवद्भजनसाधनम् , इत्याह -
बोधयन्त इति ।
आगमोपपत्तिभ्यां भगवन्तमेव विशिष्टधर्माणं शिष्येभ्यो गुरवो व्युपदिशन्ति । तदपि भगवद्भजनमेव, इत्याह -
कथयन्त इति ।
भक्तानां तुष्टिरती स्वरसतः स्याताम् इत्याह -
तुष्यन्तीति ।
मनोरथपूर्त्या रतिप्राप्तौ कामुकसम्मतम् उदाहरणम् आह -
प्रियेति
॥ ९ ॥