श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥
ये यथोक्तैः प्रकारैः भजन्ते मां भक्ताः सन्तः —

यदुक्तं ‘सोऽविकम्पेन’ (भ. गी. १०-७) इत्यादि, तदर्थं भूमिकां कृत्वा, तद् इदानीम् उदाहरति -

ये यथोक्तेति ।

नित्याभियुक्तानाम् - अनवरतं भगवति ऐकाग्र्यसम्पन्नानाम् , इत्यर्थः ।