श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
परं ब्रह्म परं धाम पवित्रं परमं भवान्
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
यथोक्तां भगवतः विभूतिं योगं च श्रुत्वा अर्जुन उवाच —

निरस्ताशेषविशेषं निरूपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपम् , तद्धीफलं च श्रुत्वा, निरुपाधिकरूपस्य प्राकृतबुद्ध्यनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिग्राह्य सोपाधिकं रूपं विस्तरेण श्रोतुम् इच्छन् पृच्छति, इत्याह -

यथोक्तामिति ।

परं ब्रह्म भवान् लक्ष्यनिर्देशः । तस्य लक्षणार्थं परं धाम इत्यादि विशेषणत्रयम् ।