निरस्ताशेषविशेषं निरूपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपम् , तद्धीफलं च श्रुत्वा, निरुपाधिकरूपस्य प्राकृतबुद्ध्यनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिग्राह्य सोपाधिकं रूपं विस्तरेण श्रोतुम् इच्छन् पृच्छति, इत्याह -
यथोक्तामिति ।
परं ब्रह्म भवान् लक्ष्यनिर्देशः । तस्य लक्षणार्थं परं धाम इत्यादि विशेषणत्रयम् ।