ऋषिग्रहणेन गृहीतानामपि नारदादीनां विशिष्टत्वात् पृथक् ग्रहणम् । असितो देवलस्य पिता । किम् अन्यैः । त्वं स्वयमेव आत्मानम् उक्तरूपं मह्यम् उक्तवान् इत्याह -
स्वयञ्चेति
॥ १३ ॥