आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥
आहुः कथयन्ति त्वाम् ऋषयः वसिष्ठादयः सर्वे देवर्षिः नारदः तथा । असितः देवलोऽपि एवमेवाह, व्यासश्च, स्वयं चैव त्वं च ब्रवीषि मे ॥ १३ ॥