श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥
ईदृशम् —

उक्तविशेषणं त्वाम् ऋषयः सर्वे यस्मात् आहुः, तस्मात् तद्वचनात् तवोक्तं ब्रह्मत्वम् युक्तम् , इत्याह -

ईदृशमिति ।