ऋषिभिः त्वया च उक्तत्वात् उक्तम् सर्वं सत्यमेव इति मम मनीषा इत्याह -
सर्वमिति ।
किं तत् इत्याशङ्क्य आत्मरूपं इत्याह -
यन्मां इति ।
देवादिभिः सर्वैः उच्यमानतया त्वद्रूपे विशिष्टवक्तृग्रहणं अनर्थकम् इत्याशङ्क्य आह -
नहीति ।
प्रभवो नाम प्रभावः निरूपाधिकस्वभावः, यदा देवादीनामपि दुर्विज्ञेयं तव रूप, तदा का कथा मनुष्याणां इत्यर्थः
॥ १४ ॥