मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
दशमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
आदित्यानामहं
विष्णुर्ज्योतिषां
रविरंशुमान्
।
मरीचिर्मरुतामस्मि
नक्षत्राणामहं
शशी
॥ २१ ॥
आदित्यानां
द्वादशानां
विष्णुः
नाम
आदित्यः
अहम्
।
ज्योतिषां
रविः
प्रकाशयितॄणाम्
अंशुमान्
रश्मिमान्
।
मरीचिः
नाम
मरुतां
मरुद्देवताभेदानाम्
अस्मि
।
नक्षत्राणाम्
अहं
शशी
चन्द्रमाः
॥ २१ ॥
आदित्यानाम् इत्यादिना
;
तत्र तत्र प्रधानत्वेन परस्य ध्येयत्वम् । एवंशब्दार्थमेव दर्शयति -
आदित्यानाम् इत्यादिना
॥ २१ ॥