श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम्ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान्मरीचिः नाम मरुतां मरुद्देवताभेदानाम् अस्मिनक्षत्राणाम् अहं शशी चन्द्रमाः ॥ २१ ॥

तत्र तत्र प्रधानत्वेन परस्य ध्येयत्वम् । एवंशब्दार्थमेव दर्शयति -

आदित्यानाम् इत्यादिना

॥ २१ ॥