मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
दशमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
आदित्यानामहं
विष्णुर्ज्योतिषां
रविरंशुमान्
।
मरीचिर्मरुतामस्मि
नक्षत्राणामहं
शशी
॥ २१ ॥
आदित्यानां द्वादशानां विष्णुः नाम आदित्यः अहम् । ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान् । मरीचिः नाम मरुतां मरुद्देवताभेदानाम् अस्मि । नक्षत्राणाम् अहं शशी चन्द्रमाः ॥ २१ ॥
आदित्यानाम् इत्यादिना
;
तत्र तत्र प्रधानत्वेन परस्य ध्येयत्वम् । एवंशब्दार्थमेव दर्शयति -
आदित्यानाम् इत्यादिना
॥ २१ ॥