मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
दशमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
पुरोधसां
च
मुख्यं
मां
विद्धि
पार्थ
बृहस्पतिम्
।
सेनानीनामहं
स्कन्दः
सरसामस्मि
सागरः
॥ २४ ॥
पुरोधसां च राजपुरोहितानां च मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिम् । स हि इन्द्रस्येति मुख्यः स्यात् पुरोधाः । सेनानीनां सेनापतीनाम् अहं स्कन्दः देवसेनापतिः । सरसां यानि देवखातानि सरांसि तेषां सरसां सागरः अस्मि भवामि ॥ २४ ॥
स हीति
;
पुरोहितेषु बृहस्पतेः मुख्यत्वे हेतुम् आह -
स हीति
॥ २४ ॥