मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
दशमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
पुरोधसां
च
मुख्यं
मां
विद्धि
पार्थ
बृहस्पतिम्
।
सेनानीनामहं
स्कन्दः
सरसामस्मि
सागरः
॥ २४ ॥
पुरोधसां
च
राजपुरोहितानां
च
मुख्यं
प्रधानं
मां
विद्धि
हे
पार्थ
बृहस्पतिम्
।
स
हि
इन्द्रस्येति
मुख्यः
स्यात्
पुरोधाः
।
सेनानीनां
सेनापतीनाम्
अहं
स्कन्दः
देवसेनापतिः
।
सरसां
यानि
देवखातानि
सरांसि
तेषां
सरसां
सागरः
अस्मि
भवामि
॥ २४ ॥
स हीति
;
पुरोहितेषु बृहस्पतेः मुख्यत्वे हेतुम् आह -
स हीति
॥ २४ ॥