मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
दशमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अश्वत्थः
सर्ववृक्षाणां
देवर्षीणां
च
नारदः
।
गन्धर्वाणां
चित्ररथः
सिद्धानां
कपिलो
मुनिः
॥ २६ ॥
अश्वत्थः
सर्ववृक्षाणाम्
,
देवर्षीणां
च
नारदः
देवाः
एव
सन्तः
ऋषित्वं
प्राप्ताः
मन्त्रदर्शित्वात्ते
देवर्षयः
,
तेषां
नारदः
अस्मि
।
गन्धर्वाणां
चित्ररथः
नाम
गन्धर्वः
अस्मि
।
सिद्धानां
जन्मनैव
धर्मज्ञानवैराग्यैश्वर्यातिशयं
प्राप्तानां
कपिलो
मुनिः
॥ २६ ॥
“ सर्ववृक्षाणाम् " इत्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते
॥ २६, २७ ॥